top of page
मूकाम्बिकाष्टकम् (कोल्लुरनिवासी) | Kollur Mukambika Ashtakam
श्रीमूकाम्बिकाष्टकम्
नमस्ते जगद्धात्रि सद्ब्रह्मरूपे
नमस्ते हरोपेन्द्रधात्रादिवन्द्ये ।
नमस्ते प्रपन्नेष्टदानैकदक्षे
नमस्ते महालक्ष्मि कोलापुरेशि ॥ १॥
विधिः कृत्तिवासा हरिर्विश्वमेतत्-
सृजत्यत्ति पातीति यत्तत्प्रसिद्धम् ।
कृपालोकनादेव ते शक्तिरूपे
नमस्ते महालक्ष्मि कोलापुरेशि ॥ २॥
त्वया मायया व्याप्तमेतत्समस्तं
धृतं लीयसे देवि कुक्षौ हि विश्वम् ।
स्थितां बुद्धिरूपेण सर्वत्र जन्तौ
नमस्ते महालक्ष्मि कोलापुरेशि ॥ ३॥
यया भक्तवर्गा हि लक्ष्यन्त एते
…bottom of page
